श्रीभगवानुवाच |
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः |
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ||६-१||
śrībhagavānuvāca .
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ .
sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ ||6-1||